प्रातःस्मरण शौचादि प्रकरणम् · पृ० २
नामादि भेदरहितं षडभावशून्यं
संसार रोग हरमौषध मद्वितीयम्॥३॥
प्रातःसमुत्थाय शिवंविचिन्त्य श्लोकत्रयं येनुदिनं पठन्ति॥
ते दुःखजातं भवजन्मसंचितं हित्वा पदं यान्ति तदेव शंभोः॥४॥
संसार रोग हरमौषध मद्वितीयम्॥३॥
प्रातःसमुत्थाय शिवंविचिन्त्य श्लोकत्रयं येनुदिनं पठन्ति॥
ते दुःखजातं भवजन्मसंचितं हित्वा पदं यान्ति तदेव शंभोः॥४॥
प्रातःस्मरामि भवभीतिमहार्त्तिशान्त्यै
नारायणं गरुड—वाहनमब्जनाभम्॥
ग्राहाभिभूतवरवारणमुक्तिहेतुं
चक्रायुधं पतगराजभुजाधिरूढम्॥५॥
प्रातर्भजामि भजतामभयङ्करं तं
प्राक्सर्वजन्मकृतपापभयापहत्यै॥
यो ग्राहवक्त्र—पतिताङ्घ्रिगजेन्द्रघोर
तापत्रयोद्धृतकरो धृतशङ्खचक्रः॥६॥
प्रातर्नमामि मनसा वचसा च मूर्ध्ना
पादारविन्द युगलं परमस्य पुंसः॥
नारायणस्य नरकार्णवतारणस्य
पारायणप्रवणविप्रपरायणस्य॥७॥
श्लोकत्रयमिदंपुण्यं प्रातः प्रातः पठेन्नरः॥
लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरिः॥८॥

ब्रह्मामुरारिस्त्रिपुरांतकारी भानुश्शशी भूमिसुतो बुधश्च॥
गुरुश्चशुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम्॥९॥
प्रभाते यः स्मरेन्नित्यं दुगादुर्गाक्षर द्वयम्॥
आपदस्तस्य नश्यन्ति तमस्सूर्योदये यथा॥१०॥
भृगुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्चगौतमः॥
रैभ्योमरीचिश्च्यवनश्चदक्षः कुर्वन्तुसर्वे मम सुप्रभातम्॥११॥
सनत्कुमारः सनकः सनन्दनः सनातनोप्यासुरिपिङ्गलौच॥
सप्तस्वराः सप्तरसातलानि कुर्वन्तुसर्वेमम सुप्रभातम्॥१२॥

Editorial notes
- Verse 10 is printed “दुगादुर्गाक्षर द्वयम्” (the first दुर्गा without its reph).