प्रातःस्मरण शौचादि प्रकरणम् · पृ० ३
सप्तार्णवाः सप्तकुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त॥
भूरादि कृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम्॥१३॥
पृथ्वीसगन्धा सरसास्तथापः स्पर्शीचवायु र्ज्वलितं वतेजः॥
नभः सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्रभातम्॥१४॥
अविमुक्तचरणयुगलं दक्षिणमूर्त्तेश्च कुक्कुटचतुष्कम्॥
स्मरण मपि बाराणस्या निहन्ति दुःस्वप्न मपशकुनंच॥१५॥

अहल्या द्रौपदी तारा कुन्ती मन्दोदरी तथा।
पंचकन्याः स्मरेन्नित्यं महापातकनाशनम्॥१६॥
पुण्यश्लोकोनलो राजा पुण्यश्लोको युधिष्ठिरः।
पुण्यश्लोकाचवैदेही पुण्यश्लोको जनार्दनः॥१७॥
अयोध्या मथुरा माया काशी काञ्चीअवन्तिका।
पुरी द्वारावती चैव सप्तैतामोक्षदायिकाः॥१८॥
शिवः काशी शिवः काशी काशी काशी शिव शिवः।
वारत्रयं पठेन्नित्यं काशी वासफलं लभेत्॥१९॥
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च।
ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम्॥२०॥
आदित्यस्य नमस्कारं ये कुर्वन्ति दिनेदिने।
जन्मान्तरसहस्रेषु दारिद्र्यंनोपजायते॥२१॥
कराग्रे वसते लक्ष्मीः करमूले सरस्वती।
करमध्येतु गोविन्दः प्रभाते करदर्शनम्॥२२॥
महाप्रसादजननी सर्वसौभाग्यवर्द्धिनी।
आधिव्याधिहरानित्यं तुलसित्वन्नमोऽस्तुते॥२३॥
गावो मे अग्रतः सन्तुगावो मे सन्तु पृष्ठतः।
गावो मे हृदये सन्तु गवां मध्ये वसाम्यहम्॥२४॥
अश्वत्थामा बलिर्व्यासो हनूमाँश्च विभीषणः।
कृपः परशुरामश्च सप्तैते चिरजीविनः॥२५॥

Editorial notes
- Words shown like this are uncertain readings.